प्रात: स्मरामि मन्त्र:
करावलोकन--
कराग्रे वसते लक्ष्मी: करमध्ये सरस्वती।
करमूले स्थितो ब्रह्मा प्रभाते करदर्शनम॥
पृथ्वी वंदना --
समुद्रवसने देवि ! पर्वतस्तनमण्डले।
विष्णुपत्नि ! नमस्तुभ्यं पादस्पर्शं क्षमस्व मे॥
प्रात: स्मरणीय श्लोक —
श्रीगणेश जी --
प्रात: स्मरामि गणनाथमनाथबन्धुं सिन्दूरपुरपरिशोभितगण्डयुग्मम्।
उद्दण्डविघ्नपरिखण्डनचण्डदण्डमाखण्डलादिसुरनायकवृन्दन्द्दम्॥
श्रीविष्णु --
प्रात: स्मरामि भवभीतिमहार्तिनाशं नारायणं गरुडवाहनमब्जनाभम्।
महाभिभृतवरवारणमुक्तिहेतुं चक्रायुधं तरुणवारिजपत्रनेत्रम्॥
शंकर भगवान --
प्रात: स्मरामि भवभीतिहरं सुरेशं गड़्गाधरं वृषभवाहनमम्बिकेशम्।
खट्वाड़्गशूलवरदाभयहस्तमीश संसाररोगहरमौषध्म्द्वितीयम्॥
दुर्गा देवी ---
प्रात: स्मरामि शरदिन्दुकरोज्ज्वलाभाम सद्रत्नवन्मकरकुण्ड्लहारशोभाम ।
दिव्यायुधार्जितसुनीलसस्रहस्ताम रक्तोत्पलाभचरणां भवतीं परेशाम्॥
सूर्य--
प्रात: स्मरामि खलु तत्सुवितुर्वरेण्यम रूपं हि मण्डलमृचोऽथ तनुर्यजूंषि।
सामानि यस्य किरणा: प्रभवादिहेतुं ब्रह्माहरात्मकमलक्ष्यमचिन्त्यरूपम्॥
नवग्रह—
ब्रह्मामुरारिस्त्रिपुरान्तकारी भानु: शशी भूमिसुतो बुधश्च।
गुरुश्च शुक्र: शनिराहुकेतव: कुर्वन्तु सर्वे मम सुप्रभातम्॥
ऋषि --
भृगुर्वसिष्ठ: क्रतुरड़्गिराश्च मनु: पुलस्त्य: पुलहश्च गौतम:।
रैभ्यो मरीचिश्च्यवनश्च दक्ष: कुर्वन्तु सर्वे मम सुप्रभातम्॥
प्रकृति --
पृथ्वी सगन्धा सरसास्तथाप: स्पर्शी च वायुर्ज्वलितं च तेज:।
नभ: सशब्दं महसा सहैव कुर्वन्तु सर्वे मम सुप्रभातम्॥
भगवती लक्ष्मी --
या रक्ताम्बुजवासिनी विलासिनी चण्डांशु तेजस्विनी ।
या रक्ता रुधिराम्बरा हरिसखी या श्री मनोल्हादिनी ॥
या रत्नाकरमन्थनात्प्रगटिता विष्णोस्वया गेहिनी ।
सा मां पातु मनोरमा भगवती लक्ष्मीश्च पद्मावती ॥
No comments:
Post a Comment